Kaamakotiisha shaanti praarthanaa



श्रीः

॥ कामकोटीशशान्तिप्रार्थना ॥

अभयाख्यादण्डपाणे काञ्चीपुरनिकेतन ।

मद्गुरो कामकोटीश रक्ष मां शरणागतम् ॥ १ ॥

यावद् द्रक्ष्यामि नाहं त्वां भक्तेषु स्वेषु वत्सलम् ।

नासादयामि तेऽभ्याशं न मे शान्तिर्भविष्यति ॥ २ ॥

यावन्न चन्द्रसङ्काशं स्मितं द्रक्ष्यामि ते मुखम् ।

प्रसन्नं कृपया पूर्णं न मे शान्तिर्भविष्यति ॥ ३ ॥

यावन्न चरणौ तेऽहं योगीशव्यञ्जनान्वितौ ।

शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥ ४ ॥

यावन्न त्वं स्वसाम्राज्ये मां निविष्टं करिष्यसि ।

अनुग्रहोदकक्लिन्नं न मे शान्तिर्भविष्यति ॥ ५ ॥

कृतकृत्यं विधायाशु संसृतौ तप्तमानसम् ।

त्वमेव दद्याः शान्तिं मे पाहि मां पाहि मां गुरो ॥ ६ ॥

॥ इति श्रीकाञ्चीकामकोटिपीठाधीश्वरकृपापात्रेण सदाशिवब्रह्मेन्द्रसन्निधिवास्तव्येन श्रीरमणशर्मणा विरचिता कामकोटीशशान्तिप्रार्थना ॥