Kamakshi Jaya Gitam



श्रीः

॥ कामाक्षी-जय-गीतम् ॥

जय जय कामाक्षि – काञ्ची-`पुर-निलये ललिते ।

एकाम्रेश्वर-कामिनि मातर्¨`

वरदराज-भगिनि – जगता¨`मादि-मूल जननि ॥ १ ॥

रत्नत्रयमन्दिररत्ने काञ्चीपुरे श्रीमच्छङ्करभगवत्पादैः विशिष्य पर्युपासिताः भगवती कामाक्षी भगवान् एकाम्रेश्वरो भगवान् वरदराजश्चेत्यतः तेषां त्रयाणां स्मरणेन कामाक्षीं स्तोतुम् उपक्रमते। मनसा वरविशेषस्य भगवत्यां प्रार्थ्यमानत्वात् तद्भ्रातुः महाविष्णोः काञ्चीपुरे विशिष्य विख्यातेन वरदराजेति नाम्ना अभिधानम्। वरदराजस्य भगिन्या त्वया नूनं तादृश्यैव भवितव्यमिति। “आदिमूल” इति च तस्य गजेन्द्रेण आह्वानस्य प्रसिद्धत्वात् हस्तिशैलवासिनः स्मरणे अनुवर्तमाने अम्बायाः अपि तेनैव नाम्ना सम्बोधनं, तेन च यथाऽसौ “अनपेक्षित-नेपथ्यम् अनङ्गीकृतपादुकम्” इति स्वभक्तरक्षायै झटिति आजगाम तथा त्वयाऽपि आगन्तव्यम् इति भावः।

त्रयस्त्रिंशता त्वं – कोटिभि¨`रासेव्याऽसि सुरैः ।

मद्-गुरुनाथ-सुपूजित-चरणे`

बालं मां पश्य – मुग्धं` तत्-कृपया योग्यम् ॥ २ ॥

न च “को भवान् केन हेतुना च अनुग्राह्यो मया” इति प्रष्टुं शक्यं त्वया। यतः, यद्यपि त्वं “त्रयस्त्रिंशत्कोटिदेवतासेविता"ऽसि, मम च तत्र महामहिमसु देवेषु केनापि प्रकारेण अनुप्रवेशो नास्ति, तथाऽपि मम गुरुनाथो देवतुल्यपराक्रमः, तव च गाढ उपासकः।

“अस्तु तस्य तत्, तव किमायातम्” इति चेत्, उच्यते। प्रथमतोऽहम् अल्पज्ञो बालः, त्वं च जगतां जननीति पूर्वमेव उक्ता, अतो ममापि जननी। तस्माद् मयि त्वया दृष्टिपातः कार्यः।

“ननु त्वं बहुधा अकर्तव्यम् आचरसि, कर्तव्यं च न करोषि, कथं मम दृष्टिविषयो भवेः” इति न च वाच्यम्। यतो बाल-स्वभावत्वादेव कर्तव्याकर्तव्येषु मुह्यामि प्रमाद्यामि। न च मात्रा तादृशोऽपि पुत्र उपेक्ष्यते किन्तु संस्क्रियते सत्पथे च आनीयते।

पुत्रोऽपि उद्धतश्चेद् संस्कर्तुम् अयोग्य आपद्येत, परन्तु अहं दोषवानपि योग्य एव। कथम्? गुरुकृपाया मयि सत्त्वात्। कथमन्यथा मे “त्वं मम जननी, मां रक्षितुं शक्नोषि, अतस्त्वमेव उपसर्तव्या” इति प्रज्ञा, त्वयि प्रार्थना वा समुद्भवेत्। गुरुनाथ एव हि मां मनोवाक्कायैः त्वत्सन्निधिं प्रापयत्। तस्मात् सुयोग्यस्य गुरोः शिष्यत्वमात्रेण मयि तव दृष्टिं पातयेरेव।

कटाक्ष-लेशस्¨ते – आर्ये` हिमकर-सम-धर्मा ।

मन्द-स्मित-सम्प्रकटित-करुणे`

पद-कमले भक्तिं – देयात्` स्तुतये तव शक्तिम् ॥ ३ ॥

ननु यद्यहं त्वां पश्येयं ततः किं ते स्यादिति। तव कटाक्षः चन्द्रेण समधर्मा शीतलः। अत एव त्वम् आर्या अभिगम्याऽसि। न हि उग्रदृष्टिश्चेत् त्वमपि उपसृप्या स्याः। अत एव च मादृशानाम् अनुग्रहाय मम गुरुनाथः त्वामशमयत् श्रीचक्रप्रतिष्ठया। अपि च तव कटाक्षः चन्द्र इव समधर्मा च, न पात्रापात्रे प्रतीक्ष्य विषयीकरोति। तथा हि गुरुणैव कृतमिदमपि मार्गदर्शनम् -

“दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः॥”

तादृशं कटाक्षं लेशतोऽपि मयि पातयन्त्यास्तव एतावतः प्रश्नान् पृच्छन्त्याः अपि मन्दस्मितमेव तव वस्तुतो मयि विद्यमानां करुणां सम्यक् प्रकटयति। असौ तव पदकमले भक्तिं तव स्तुतये च तवैव शक्तेः अंशं मे ददातु इति नाथेऽहं, यतः अमुनैव शङ्करगुरुणा कालान्तरे रूपान्तरेण इदमप्यभ्यधायि -

“आर्यामेव विभावयन् मनसि यः पादारविन्दं पुरः
पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् ।
कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विताम्
आरोहत्यपवर्गसौधवलभीम् आनन्दवीचीमयीम् ॥”

तेन आर्या-पादारविन्द-स्तुति-कटाक्ष-मन्दस्मित-नामकैः पञ्चभिः शतकैः यथा उत्कृष्टतया त्वं सेविता तथा निश्चयेन न कर्तुं शक्नोम्यहं, परं तानि शतकानां पञ्च नामानि इत्थं मदीये बालपद्ये वक्तुं प्रभवाम्येव। तस्मादपि तथैव त्वयाऽहम् अनुग्राह्यः।

कोटिं कामांस्¨त्वं – यच्छसि` कृपया भक्तानाम् ।

सर्वान् कामान् स हा¨श्नुते सह`

कोटौ कामानाम् – ज्ञानं` प्राप्तो हैमवति ॥ ४ ॥

किञ्च तव कटाक्षः इत्थं फलं दातुं समर्थ इत्यत्र अपरमपि प्रमाणं तव नामैव कामकोटीति। ये कोटिशो भक्ताः कोटिशः कामान् त्वयि प्रार्थयन्ते तेषां मादृशानां लोकवासनासंरूढचित्तानां अनुकम्पया तान् यच्छस्येव। तस्मात् त्वं कामकोटिरित्युच्यसे। किञ्च यः कश्चित् परिपक्वचित्तो “निगृहीताखिलकरणो निर्मृष्टाशेषविषयेहः” त्वामेव स्वस्वरूपां ध्यायति तादृशस्य महात्मनः स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततेः तव वास्तवे ब्राह्मे रूपे सर्वकामोपशमात्मके कामानां कोटौ विद्यमाने निष्ठया सर्वकामाधिकस्वात्मलाभरूपफलप्राप्तिः भवति, “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता”, “पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः” “यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः, अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते” इत्यादिश्रुतेः, “कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न कामकामी” इत्यादिस्मृतेश्च। त्वमेव मोक्षदात्री इत्यत्र च “बहु शोभमानाम् उमां हैमवतीं … सा ब्रह्मेति होवाच” इति श्रुतिरेव प्रमाणम् इत्यतो हैमवतीति सम्बोधयामि। सर्वथाऽपि कामकोटिपदभाक् त्वं मह्यं “भोगश्च मोक्षश्च करस्थ एव” इत्युक्तं फलं दद्या एव।

अपजहि मम चिन्ताम् – रक्ष~` बहुतर-भय-निचयात् ।

“कर्ताऽहं”-धी-शोधन-विधया`

स्वस्त्यै नय सुपथा – दुर्गे` भव मम मङ्गल-दा ॥ ५ ॥

“अहं कर्ता नानाविधानां कर्मणां एवंनामा एवंबन्धुः एवंकृत्यः एवंकर्तव्यः” इत्यादिभावनायां सत्यामेव “अभीष्टसम्पादने कीदृशा विघ्ना जायेरन्, कीदृशं विपरीतम् आपतेत्, के जना अनुकूलाः प्रतिकूलाः” इत्यादिभिः नानारूपैः असङ्ख्याताभिः चिन्ताभिः भयैः उपद्रुतो भवामि। तस्मात् प्रथमं मम “अहं कर्ता” इति धियं शोधय। यावद् वासना अनुवर्तन्ते तावत् सत्कर्मसु मम कर्तृत्वबुद्धिम् आधेहि, ततः परं क्रमेण सर्वात्मना तां नाशय। यथोक्तम् -

“अहंकर्तेत्यहंमानमहाकृष्णाहिदंशितः।
नाहंकर्तेति विश्वासामृतं पीत्वा सुखी भव॥”

इति। एवं “दुर्गां देवीं शरणमहं प्रपद्ये” इति श्रुत्या त्वयि शरणागतस्य -

“अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥”

इति स्मृतेः त्वमेव सन्मार्गं दर्शयित्वा “भक्तसौभाग्यदायिनी” इति नाम्नोऽनुरूपं स्वस्तिं सम्पादय। एवं सर्वमङ्गला त्वं सर्वविधं मङ्गलं मम कुरु।

॥ इति श्री-काञ्ची-कामकोटि-पीठाधीश्वर-कृपा-पात्रेण सदाशिव-ब्रह्मेन्द्र-सन्निधि-वास्तव्येन श्रीरमण-शर्मणा विलम्बि-नाम्नि संवत्सरे श्रीमज्·जयेन्द्र-सरस्वती-श्रीचरण-आराधना-पुण्य-दिने समर्पितं कामाक्षी-जय-गीतम् ॥