Sahasranaamatas-tulyam



॥ सहस्रनामतस्तुल्यम् ॥

विद्वान् श्रीरमणशर्मा,

काञ्चीशङ्करमठः, नॆरूर् अग्रहारः, द्रविडदेशः

लोके विष्णुसहस्रनामस्तोत्रस्य पारायणं प्रसिद्धम् । महाभारते अनुशासनपर्वणि भीष्मयुधिष्ठिरसंवादरूपेण इदं स्तोत्रं पठितम् । तत्पारायणाङ्गत्वेन च पुरस्तात् पश्चाच्च नैके अन्ये श्लोकाः पुराणान्तरादितः आनीताः सम्प्रदायतः पठ्यन्ते । तत्र अन्ते वक्ष्यमाणौ श्लोकौ अपि प्रसिद्धतया पठ्येते –

देव्युवाच -

केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।

पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥

ईश्वर उवाच -

श्रीराम राम रामेति रमे रामे मनोरमे ।

सहस्रनामतस्तुल्यं रामनाम वरानने ॥

अत्र द्वितीये पद्ये तृतीयः पादः बहुभिः “सहस्रनाम तत्तुल्यम्” इति पठ्यते । अस्माभिस्तु “सहस्रनामतस्तुल्यम्” इति पाठः दर्शितः । अनयोः पाठयोः साधुत्वं प्रति, कतरः ग्राह्यतरः इति च विचारः क्रियते ।

॥ संंख्यासमासविषयकं प्रथमं सूत्रम् ॥

“दिक्संख्ये संज्ञायाम्” इति पाणिनीयं सूत्रं (२/१/५०) बोधयति – “ये दिग्वाचकाः शब्दाः, ये च संख्यावाचकाः, ते समानाधिकरणेन तन्नाम समानवस्तुवाचिना शब्दान्तरेण समस्यन्ते, परन्तु संज्ञाविषये एव” ।

संज्ञाविषयो नाम समासः प्रसिद्धतया किञ्चिद् विशिष्टं वस्तु एव सूचयेत्, सामान्यतया विभिन्न-अनेक-वाचकः न भवेत् । अर्थात् ये केऽपि दश जनाः इत्यर्थे “दशजनानाम्” इति समासो न भवति । परन्तु “पञ्चपाण्डवानाम्” इति भवति, यतः पञ्च पाण्डवाः नाम के इति लोके निश्चिततया प्रसिद्धम् ।

एवं “सप्तर्षीणाम्” इति प्रयोगः ये केऽपि सप्त ऋषयः इत्यर्थे न भवति । “अत्रिः क्रतुः पुलहः पुलस्त्यः अङ्गिराः वसिष्ठः मरीचिः” इति निर्णीतेषु एव सप्तसु ऋषिषु स प्रयोगः । एतच्च नक्षत्रमण्डलविषये । गोत्रप्रवर्तकेषु अपि -

“कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ।

जमदग्निर्वसिष्ठश्च सप्तैत ऋषयः स्मृताः ॥”

इत्युक्तरीत्या एते एव इति निर्णयो भवति । अतः उभयत्रापि संज्ञात्वम् उपपद्यते ।

एवमेव दिक्शब्दविषयोऽपि, परन्तु प्रकृतविषये अनुपयोगात् न विव्रियते ।

॥ संंख्यासमासविषयकं द्वितीयं सूत्रम् ॥

उत्तरं सूत्रं “तद्धितार्थोत्तरपदसमाहारे च” (२/१/५१) इति । अनेन अयमेव संख्यासमासः संज्ञाविषयं विहाय अन्यत्रापि क्वचित् भवितुम् अर्हति इति उच्यते । तस्मिन् प्रकृते ग्राह्यः भागः अस्ति समाहारः इति । तन्नाम बहूनां वस्तूनां सङ्ग्रहेण एकीकृत्य कथनम् । अस्य त्रिकटुकं त्रिफला चतुःसूत्री पञ्चनदम् अष्टाध्यायी इत्यादीनि उदाहरणानि ।

अत्रापि संज्ञा अस्ति खलु इति भासेत । परन्तु १) पूर्वाणि उदाहरणानि बहुवचने वर्तन्ते, इमानि तु एकवचने इत्येतद् ध्येयम्, २) प्रसिद्धम् उदाहरणं दातव्यम् इत्यतः तथा अस्ति, परन्तु प्राचीनप्रसिद्धिं विनाऽपि यः कोऽपि षडध्याययुक्तं ग्रन्थं विरचय्य षडध्यायी इति वक्तुम् अर्हति ।

॥ सहस्रनामशब्दे केन समासः ॥

प्रकृते “सहस्रं नामानि” इति शब्दयोः एव समासः कार्यः इत्यत्र नास्ति संशयः । इदं च “विश्वं विष्णुः” इत्यादिषु निर्णीतेषु नामसु प्रयुज्यते इत्यतः संज्ञात्वम् अस्ति इति प्रथमसूत्रेण समासः कर्तुं शक्यते । तदा “सहस्रनामानि” इति बहुवचनमेव भवति । तथा च शङ्करभगवत्पादानां सहस्रनामभाष्यारम्भे मङ्गलपद्ये “सहस्रनाम्नां स्तवनं प्रशस्तम्” इति बहुवचनमेव प्रयुक्तम् ।

अथवा समाहार इति प्रतिज्ञाय द्वितीयसूत्रेण समासे “सहस्रनाम” इति एकवचनान्तस्यापि साधुत्वं लभ्येत ।

परन्तु समासः एकवचनान्तो बहुवचनान्तो वा साधुः भवतु । केवलं शब्दतः कस्य साधुत्वम् इति न प्रश्नः प्रत्युत कतरः पाठः उचिततरः इति ।

॥ प्रसङ्गस्थयोः श्लोकयोः अर्थः ॥

अपि च विचारविषयस्य श्लोकस्य अर्थं परिशीलयामः चेत् -

“अम्बिका पृच्छति -

विष्णोः सहस्रं नामानि केन सरलेन उपायेन प्रतिदिनं धीमन्तः पठन्ति ? स्वामिन्, अहं ज्ञातुम् इच्छामि ।

भगवान् शिवः उत्तरति -

वरानने = सुन्दरवदने, श्रीराम राम रामेति = इत्थं जपन्नेव, मनोरमे = मनसो रमणीये, रामे = सीतापतौ, रमे = अहम् आनन्दं प्राप्नोमि । सहस्रनामतः = सहस्रेण नामभिः, तुल्यं = समानं, रामनाम = राम इति नाम ।”

॥ सहस्रनामतः इति शब्दस्य व्युत्पत्तिः ॥

अत्र पूर्वोक्तरीत्या संज्ञात्वम् अङ्गीकृत्य “दिक्संख्ये संज्ञायाम्” इति प्रथमसूत्रेण “सहस्रेण नामभिः = सहस्रनामभिः” इति समासं कृत्वा “प्रतियोगे पञ्चम्यास्तसिः” (५/४/४४) इति सूत्रस्य “आद्यादिभ्य उपसङ्ख्यानम्” इति वार्तिकेन “सहस्रनामभिः” इति शब्दस्य “तस्” इति प्रत्ययं कुर्मः चेत् “भिः” इत्यस्याः विभक्तेः लोपेन “सहस्रनामतः” इति रूपं लभ्यते ।

॥ सहस्रनाम तत्तुल्यम् इति पाठे क्लेशाः ॥

यदि तु “सहस्रनाम तत्तुल्यम्” इति पाठस्य समर्थनाय “सहस्रं नामानि” इति विग्रहेण “…समाहारे च” इति द्वितीयसूत्रेण “सहस्रनाम” इति एकवचनान्तं रूपं सम्पाद्येत । एवं सम्पादितेऽपि “श्रीराम राम राम इति जपन् अहं रामे आनन्दं प्राप्नोमि” इति पूर्वार्धात् परम् “सहस्रनाम = सहस्रस्य नाम्नां समुदायः, तत्तुल्यम् = तेन समानम्” इति वक्तव्यं भवति । “केन समानम्” इति चेत् पूर्वोक्तेन रामनाम्ना इति अस्माभिरेव अवगन्तव्यं भवति, विद्यमानैः शब्दैः स्पष्टतया न लभ्यते । न च अनन्तरमेव उत्तरत्र स्थितेनापि “रामनाम” इति प्रथमान्तेन पदेन समासमध्ये स्थितस्य “तत्"पदस्य विशेषजिज्ञासा शान्तिं प्राप्नोति, शब्दमर्यादया तथा कर्तुम् अशक्यत्वात् । तस्मात् “रामनाम” इति पदम् अन्वयरहिततया लम्बमानं भवति ।

न तावदेव । समाहारार्थे एकवचनसमासे अङ्गीक्रियमाणेऽपि “सहस्रनाम्ना समानफलकं लघु साधनं किम्” इति प्रश्नस्य कथम् उत्तरं देयम् ? “एतत् सहस्रनाम्ना समानम्” इति वक्तव्यम् । न तु “सहस्रनाम एतेन समानम्” इति । यथा हि “वसुदेवस्य पुत्रः कः” इति प्रश्नस्य “वसुदेवस्य पुत्रः कृष्णः” इति उत्तरे वक्तव्ये “कृष्णस्य पिता वसुदेवः” इति उत्तरं दीयेत तथा इदं स्यात् ।

उभयं फलतः एकमेव चेदपि एकया रीत्या प्रश्ने कृते कुतः अन्यया रीत्या उत्तरं दत्तम् इति प्रश्नो भवति खलु ? अपि च तथा परिवर्त्य उत्तरदाने कोऽपि विशेषाभिप्रायो वर्तते वा इति प्रश्नोऽपि भवति । प्रकृते च तथा विशेषाभिप्रायः कोऽपि नास्ति ।

किञ्च अयं श्लोकः रामनाम प्राधान्येन अधिकृत्य किमपि वक्तुम् आरब्धः, न तु सहस्रनामसमुदायम् अधिकृत्य । तन्नाम शास्त्रीयपरिभाषायां रामनाम उद्देश्यम् अथवा विशेष्यं भवेत्, न तु विधेयम् अथवा विशेषणम् । “सहस्रनाम तत्तुल्यम्” इति कथने तच्छब्देन कथञ्चित् रामनामग्रहणे साधितेऽपि तत् सहस्रनामसमुदायस्य विशेषणं भवति । “सहस्रनामतस्तुल्यं रामनाम” इति पाठे तु रामनाम स्वरसतः विशेष्यं भवति, सहस्रनामसमुदायश्च विशेषणम् ।

॥ उपसंहारः ॥

तस्मात् “सहस्रनाम तत्तुल्यम्” इति पाठे बहवः श्रमाः सन्ति इत्यतः तदपेक्षया “सहस्रनामतस्तुल्यम्” इति पाठः एव आदरणीयः इति निवेद्यते ॥

-०-०-०-