kavargasyasthaanam



॥ कवर्गस्य स्थानं कण्ठो न ॥ #

विद्वान् श्रीरमणशर्मा

काञ्चीशङ्करमठः, नॆरूर् अग्रहारः

करूर् मण्डलम्, द्रविडदेशः

॥ प्रस्तावः ॥

“अकुहविसर्जनीयाः कण्ठ्याः” इति इदं वाक्यं पाणिनीयशिक्षासूत्रादिषु कतिपयेषु ग्रन्थेषु वर्तते । “तुल्यास्यप्रयत्नं सवर्णम्” इति पाणिनीयस्य (१-१-९) सूत्रस्य विवरणे काशिकाव्याख्यानयोः न्यासपदमञ्जर्योः इदं सूत्रम् उद्धृतम् । तस्यैव पाणिनीयस्य सूत्रस्य विवरणे इदमेव वाक्यम् आश्रित्य सिद्धान्तकौमुद्यामपि “अकुहविसर्जनीयानां कण्ठः” इति पठितम् । तदनु लघुसिद्धान्तकौमुद्यामपि तत् सङ्क्रान्तम् । अयं च ग्रन्थः प्राथमिकसंस्कृताध्ययने बहुधा लब्धप्रचार इत्यतः सुबहवः संस्कृताध्येतारः कवर्गस्य कण्ठ एव स्थानमिति मन्यन्ते । तन्न इति अस्मिन् लेखने निरूपयिष्यते ।

अयं भावः । यद्यपि उक्तरीत्या प्राचीनेषु ग्रन्थेषु उपलभ्यते इत्यतः नेदं वाक्यं निर्मूलम् इति शक्यं वक्तुम् । तथाऽपि अस्य वाक्यस्य यथाश्रुतार्थग्रहणेन अकार-हकार-विसर्गाणां यत् स्थानं तदेव कवर्गस्यापि इति भ्रान्तिः सञ्जायते सर्वेषाम् । वस्तुतस्तु अस्य प्राचीनस्यापि वाक्यस्य कथञ्चित् प्रामाण्यरक्षणाय अत्र कण्ठशब्दस्य समासं भित्त्वा अहविसर्जनीयेषु एकोऽर्थः कवर्गे च अपर इति अवश्यम् अङ्गीकर्तव्यम् । तत्र च अहविसर्जनीयानां यत् स्थानं तद् लोकप्रसिद्धे कण्ठे अन्तर्भवति, कवर्गस्य स्थानं तु नैव । अत एव “कवर्गस्य स्थानं कण्ठो न” इति सधैर्यम् उद्घुष्टम् ।

सवर्णसंज्ञादौ तत्प्रयुक्तायां प्रक्रियायां चैव दत्तदृष्टिभिः भूयिष्ठैः वैयाकरणैः शिक्षान्तरेषु प्रातिशाख्येषु च प्रसिद्धोऽयं भेदः न वा आलोचितः, आलोचितोऽपि वा स्वकार्ये अनपेक्षितत्वेन नादृतः । तत्फलं तु अद्यतनानां बहूनाम् इयं शोचनीया भ्रान्तिः । हन्त किं करवाम ! अथवा शिष्येभ्य उपदिशाम लोकप्रकाशं लेखनं च लिखाम !

॥ वर्णोच्चारणप्रक्रियायां कण्ठस्य कृत्यम् ॥

कवर्गः कण्ठे जायते न वा इति विम्रष्टुं प्रथमतः कण्ठशब्दार्थः शोधनीयः । कण्ठशब्दस्य खलु लोकप्रसिद्धः अर्थः शिरसः कायेन सन्धायकः अवयवः । तस्य तु न समग्रस्य शब्दोत्पत्तौ व्यापारः । किन्तु तस्य बहिर्भागे पुरस्ताद् उन्नततया यत्र “काकलक"संज्ञकः अवयवः (laryngeal prominence / “Adam’s apple”) दृश्यते तेन उपलक्षिते अन्तःप्रदेशे श्वासनालम् (trachea) अन्तरा द्वे तिरश्च्यौ तन्त्र्यौ स्तः । इमे “घोषतन्त्र्यौ” इत्युच्येते (vocal chords) । तत्र च यदा उरस उत्क्षिप्तो वायुः समीर्ते, तयोश्च तन्त्र्योः “संवार"संज्ञकः तिर्यग् आयमन(दृढीकरण)व्यापारः क्रियते, तदा ऊर्ध्वं गच्छता वायुना वातायनकवाटेषु फटफटाध्वनिरिव कम्पनम् उत्पाद्यते, स च कम्पनधर्मः “घोषः” (voicing) इत्युच्यते । तद्वान् अयं कण्ठे प्राथमिकतया उत्पन्नो ध्वनिः “नादः” इत्युच्यते । तद्विशिष्टाः वर्णाः “घोषवन्तः” (voiced sounds) इत्युच्यन्ते । एतद्विपरीततया स्वाभाविकतया यदा तयोः तन्त्र्योः “विवारः” तन्नाम शिथिलता भवति, तदा तत्र “अघोषः” तन्नाम घोषाभावः भवति, तद्विशिष्टाश्च वर्णाः “अघोषाः” इति (voiceless sounds) । तस्यां दशायां कण्ठे उत्पन्नः प्राथमिकध्वनिः प्राकृतश्वासावस्थातुल्यत्वात् “श्वासः” इत्युच्यते । एवं घोषतन्त्र्योः कम्पनेन तदभावेन वा विशिष्टस्य प्राथमिकध्वनेः उत्पादनमेव कण्ठस्य व्यापारः सर्ववर्णेषु । तस्माद् वस्तुतो घोषतन्त्र्यौ एव कण्ठस्थानमिति प्राचीनेषु ग्रन्थेषु कथ्येते, यतः तयोरेव संवारविवारौ भवतः । यतश्च अनयोः अन्यतरः प्रयत्नः सर्वेषु वर्णेषु भवत्येव, तस्मात् सर्वे वर्णाः कण्ठे एव प्रथमत उत्पद्यन्ते । अतः कण्ठः सर्ववर्णसाधारणमेव स्थानं भवति ।

॥ अहविसर्जनीयानां कण्ठस्थानत्वस्य आशयः ॥

एवं सति यदि कण्ठः सर्वेषामेव वर्णानां स्थानं तर्हि “अहविसर्जनीयानां कण्ठः” इति कवर्गपरिवर्जनेऽपि अस्य सूत्रस्य कोऽर्थः इति । उच्यते । एषु त्रिषु कण्ठं विहाय अन्येषु आस्यान्तर्वर्तिषु अवयवेषु विशेषकरो व्यापारः (आभ्यन्तरप्रयत्नापेक्षः) कोऽपि नास्ति इति सूचयितुमेव एषु कण्ठस्य स्थानत्वेन कथनम् । आस्यान्तर्वर्ति ताल्वादिकं यथा अन्येषां वर्णानां विशेषस्थानं तथा एषु किमपि नास्ति । प्राथमिकेन नादमात्रेण अकारो भवति, तस्य च धर्मस्य अधिकेषु वर्णेषु अनुस्यूतत्वादेव “अकारो वै सर्वा वाक्” इत्यादीनि प्रशंसावाक्यानि । नादेन सह महाप्राणताया आधिक्ये हकारो भवति । श्वासेन महाप्राणताया आधिक्ये विसर्गो भवति । इत्थम् अहविसर्जनीयानां कण्ठस्थानता ।

॥ कवर्गस्य उच्चारणप्रक्रिया ॥

{width=“2.8098in” height=“3.9965in”}कवर्गस्य तु स्थानम् उत्तरहनूमूलेन उपलक्षितः अन्तर्वर्ती अवयवः आधुनिकव्यवहारे “कोमलतालु"संज्ञकः भवति । जिह्वायाः पश्चाद्भागश्च “जिह्वामूल"संज्ञकः तत्र करणं भवति । तन्नाम जिह्वामूलेन कोमलतालुनः स्पर्शनं कवर्गोत्पत्तेः विशेषकारणं भवति । तत्रापि कण्ठस्य सर्ववर्णसाधारणतया श्वासस्य नादस्य वा उत्पादनेन हेतुत्वम् अस्त्येव, परन्तु इदं चवर्गादीनामपि समानम् इत्यतः कवर्गस्य उच्चारणे लोकप्रसिद्धस्य कण्ठस्य तदन्तर्गतस्य वा कस्यापि अवयवस्य असाधारणं हेतुत्वं किमपि नास्ति । अत एव उच्यते – कवर्गस्य स्थानं कण्ठो न !

॥ अन्यानि शिक्षाप्रातिशाख्यवाक्यानि ॥

अत एव पाणिनीयशिक्षासूत्रादीन् कतिपयान् ग्रन्थान् विहाय भूयिष्ठेषु शिक्षाप्रातिशाख्यग्रन्थेषु अहविसर्गाणामेव कण्ठ्यत्वं, कवर्गस्य तु जिह्वामूलहनूमूलाभ्यां निष्पाद्यत्वं च उच्यते । तथा हि श्लोकात्मिकायां प्रसिद्धतरायां पाणिनीयशिक्षायामेव तावत् “कण्ठ्यौ अहौ … जिह्वामूले तु कुः प्रोक्तः” इति पठ्यते (१७, १८) । शुक्लयजुर्वेदप्रधानायां याज्ञवल्क्यशिक्षायां (वर्णप्रकरणे ४) “कण्ठ्याः अकारादयः, जिह्वामूलीयाः ककारादयः” । कृष्णयजुर्वेदप्रधानायां व्यासशिक्षायां (४०१ श्लोकार्धम्) “कवर्गादिषु जिह्वादिमध्यान्तोष्ठेन चोपरि” । ऋग्वेदप्रातिशाख्ये “कण्ठ्योऽकारः, प्रथमपञ्चमौ च द्वौ (हकारविसर्गौ) ऊष्मणाम् … जिह्वामूलीयाः प्रथमश्च वर्गः” (१-४१) । शुक्लयजुर्वेद-प्रातिशाख्ये “ऋःक्कौ जिह्वामूले, अहविसर्जनीयाः कण्ठे, जिह्वामूलीयानुस्वारा हनूमूलेन” (१/६५, ७१, ८३) । कृष्णयजुर्वेद(तैत्तिरीय)प्रातिशाख्ये “हनूमूले जिह्वामूलेन कवर्गे स्पर्शयति” (२/३५) इति स्पष्टतमम् । सामवेदीयऋक्तन्त्रप्रातिशाख्ये “हाः कण्ठे, जिह्वामूलेःकृ” (१/२, ४) ।

॥ प्रकृतवाक्यस्य कथञ्चिद् अर्थनयनम् ॥

एवमेतावत्सु वचनेषु जाग्रत्सु युक्तौ च दृढतरायां स्थितायाम् अकुहविसर्जनीयानां सहव्यपदेशमात्रम् आदाय कवर्गस्य स्थानं कण्ठः इति, तच्च यदेव अहविसर्जनीयानां स्थानमिति जायमाना इयं भ्रान्तिः नितरां शोककरी । हन्त दैवेन अनुकूलितं तद् वाक्यं लोके यशः प्राप्नोत्, इमानि तु अन्यानि स्पष्टतरं सत्यं ब्रुवन्ति वाक्यानि तिरोहितानीव विरलैरेव परिशील्यन्ते । न च अन्येषाम् अन्येषां मते अन्योऽन्यः कवर्गो भवति, येन मतान्तरं तत् स्यादिति वक्तुं शक्येत । तस्माद् एतैः वाक्यैः सह एकवाक्यताम् आपाद्यैव अकुहविसर्जनीयाः इति वाक्यस्य अर्थो वक्तव्यः । तस्य च प्रामाण्यपरिरक्षणाय तत्र अगत्या काशकुशावलम्बनेन कण्ठशब्दस्य अहविसर्जनीयेषु एकः अवयवः अर्थः, कवर्गमात्रे तु ताल्वादिषु आस्यान्तर्वर्तिषु स्थानेषु पूर्वोक्तस्य समीपतमः इति लक्षणया अन्यः अवयवः अर्थः इति वक्तव्यम् । उक्तं च तथा नागेशभट्टेन लघुशब्देन्दुशेखरे “अत्र कण्ठपदं कण्ठस्थानसमीपजिह्वामूलस्थानोभयपरं, तेन ‘कण्ठ्यावहौ’ ‘जिह्वामूले तु कुः प्रोक्तः’ इति शिक्षया न विरोधः” इति । परन्तु कति जनाः तं जटिलं ग्रन्थं पठन्ति, कति पुनः अकुहविसर्जनीयानामिति वाक्यमेव आवर्तयन्ति इति परिशीलिते समापतिताया आपदः परिमाणं ज्ञातुं शक्यं भवति ।

आस्तां तावत् । एकं त्विह वक्तव्यम् । अस्मदुद्धृतेषु वाक्येषु जिह्वामूलस्य क्वचित् स्थानत्वेन क्वचित् पुनः करणत्वेन व्यपदेशो दृश्यते । करणत्वमेव तु उचितं, उच्चारणे तस्यैव व्यापारवत्त्वेन साधनत्वात् । करोति अनेन इति किल करणम् । हनूमूलं च स्थानमित्येव उचितम् । यतः न तस्य व्यापारवत्त्वलक्षणं करणत्वं, प्रत्युत करणव्यापाराधिकरणत्वमात्रम् । तिष्ठत्यत्र इति च हि स्थानम् । कथमपि अहविसर्जनीयानां स्थानस्य सर्वेषु च वर्णेषु व्याप्रियमाणस्य घोषतन्त्रीयुतस्य कण्ठस्य तत्र कवर्गे असाधारणं किमपि कार्यं नास्तीति सिद्धम् ।

॥ रेफस्य स्थानं मूर्धा न ॥

कवर्गस्थानभेदप्रसङ्गेन इदमपि उच्यते – रेफस्य स्थानं मूर्धा न – इति । यद्यपि “अकुहविसर्जनीयाः कण्ठ्याः” इति वदत्स्वेव ग्रन्थेषु “ऋटुरषा मूर्धन्याः” इत्यपि वर्तते, कौमुद्यामपि च तदनुसृत्यैव पठितं, पाणिनीयशिक्षायां च “स्युर्मूर्धन्या ऋटुरषाः” (१७) इत्येव वर्तते, तथाऽपि टवर्गषकारयोः यः अवयवः स्थानं, न सः रेफे । तथा हि टवर्गषकारयोः यावद् आस्यस्य अभ्यन्तः स्पर्शनं भवति, यथा वा तदर्थं करणस्य जिह्वाग्रस्य प्रतिवेष्टनं (गजशुण्डाया इव वक्रीकरणं), न तावत् तथा वा रेफे । मूर्धसंज्ञकात् तस्मात् टवर्गषकारयोः स्थानात् पुरस्तादेव दन्तमूलेषु अथवा “बर्स्व"संज्ञके तेभ्यः प्रत्यग्देशे स्थाने अप्रतिवेष्टितेनैव जिह्वाग्रेण करणेन क्रियते ।

अत एव ऋग्वेदप्रातिशाख्ये “दन्तमूलीयस्तु तकारवर्गः सकाररेफलकाराश्च, रेफं बर्स्व्यमेके” (१/४४-४६), शुक्लयजुःप्रातिशाख्ये “रो दन्तमूले” (१/६८), तैत्तिरीयप्रातिशाख्ये “रेफे जिह्वाग्रमध्येन प्रत्यग् दन्तमूलेभ्यः” (२/४१) सामवेदऋक्तन्त्रप्रातिशाख्ये च “दन्ते त्स्लाः, रेफो मूले वा” (१/७, ८) इति च स्पष्टतरं कथनात् पूर्वोक्तेषु शिक्षावाक्येषु मूर्धशब्देन रेफमात्रविषये टवर्गषकारयोः स्थानभूतस्य वास्तवस्य मूर्ध्नः निकटे किञ्चित् पुरस्ताद् विद्यमानः बर्स्वापरपर्यायः अवयवः दन्तमूलं वा ग्राह्यम् इति वक्तव्यम् । दृश्यतां च चित्रम् -

{width=“6.6929in” height=“3.5083in”}॥ उपसंहारः ॥

“आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥” इति मनोर्वचनं भवति (१२/१०६) । प्राचीनानां पूज्यैः उच्चारितानामपि वाक्यानाम् अविचार्य अर्थकल्पनं न युक्तं भवति । “न हि श्रुतिशतमपि घटं पटयितुम् ईष्टे” इति हि त एव प्राचीनाः वदन्ति । तस्माद् “अकुहविसर्जनीयानां कण्ठः, ऋटुरषाणां मूर्धा” इत्येवंजातीयकानां वाक्यानां शास्त्रान्तरैः युक्त्या च सामञ्जस्यं घटयित्वैव अर्थो बोद्धव्यः । तथा च सति उक्तरीत्या स्थितम् एतद् यत् यः कण्ठः अहविसर्गाणां स्थानं सः कवर्गस्य स्थानं न, तथा यो मूर्धा टवर्गषकारयोः स्थानं स रेफस्य (तद्द्वारा ऋकारस्य) स्थानं न इति ॥

-०-