पुण्यश्लोकः खलु श्लोकः



॥ पुण्यश्लोकः खलु श्लोकः ॥

विद्वान् श्रीरमणशर्मा,

काञ्चीशङ्करमठः, नॆरूर् अग्रहारः,

द्रविडदेशः

विपत्रसङ्केतः - jamadagni@gmail.com

"पुण्यश्लोको नलो राजा" इत्यादिकं पद्यं श्रुतं स्याद् भवद्भिः । नलादीनां श्लोकः कीर्तिः पुण्या मङ्गला, तत्कथनश्रवणस्मरणैः अस्माकं श्रेयो भवतीत्यर्थः । मया तु "श्लोकः" एव पुण्यश्लोक इत्युच्यते । तन्नाम श्लोक इति योऽयं पद्यप्रकारः प्रसिद्धः अस्य कीर्तिरपि मङ्गला संस्कृतवाङ्मये बहुधा व्याप्तत्वात्, अतः तद्विवरणं श्रूयताम् इति ।

लोकव्यवहारे बहवः पद्यसामान्ये अर्थे श्लोक इति शब्दं प्रयुञ्जते, विशेषतः देवस्तोत्रादौ । तथा च "श्लोको यशसि पद्ये च" इति कोशः । तत्र तु श्लोकते स्तौति अनेन इत्यादिरीत्या व्युत्पत्तिः । अत्र तु अष्टाक्षरपादचतुष्टययुक्तस्य द्वात्रिंशदक्षरस्य अनुष्टुप्छन्दसः अवान्तरभेदः श्लोक इत्याख्यः पद्यविशेषः एव विवक्षितः ।

तथा हि उपर्युक्तमेव पद्यं परिशीलयन्तु तावद् भवन्तः । अत्र हि -

(१) पुण्यश्लोको नलो राजा (२) पुण्यश्लोको युधिष्ठिरः ।

(३) पुण्यश्लोका च वैदेही (४) पुण्यश्लोको जनार्दनः ॥

- इति चत्वारः अष्टाक्षराः पादाः वर्तन्ते । परन्तु न एतावदेव श्लोकस्य लक्षणं, यतो हि इदं पद्यमपि तादृशमेव -

(१) यामुनसैकतदेशे (२) गोपवधूजलकेलौ ।

(३) कंसरिपोर्गतिलीला (४) चित्रपदा जगद् अव्यात् ॥

परन्तु अयं श्लोको न भवतीति स्पष्टं पठनानुभववताम् । अतः श्लोकस्य लक्षणं किमपि वर्तते, तच्च अत्र अनन्तरोक्ते पद्ये नास्ति इति निश्चितम् । तस्यैव श्लोकलक्षणस्य निरूपणम् अस्मिन् लेखने क्रियते ।

अत्र च लेखने आधारः पद्यस्वरूपनिरूपणार्थमेव प्रवृत्तं छन्दःशास्त्रमेव । परन्तु अत्र तच्छास्त्रगतानां सर्वेषां प्रधानविषयाणां परिचयो न कार्यते । प्रकृतविषयनिरूपणार्थं यावदेव वक्तव्यं तावदेव उच्यते । विस्तरस्तु च्छन्दोमञ्जरी-वृत्तरत्नाकरादौ, ततोऽपि वा मूलभूते पिङ्गलाचार्यविरचिते छन्दःसूत्रग्रन्थे सवृत्तिके द्रष्टव्यः ॥

॥ लघुगुरुभावस्य गणानां च परिचयः ॥

श्लोकस्य लक्षणं वक्तुं प्रथमतः लघुगुरुलक्षणम् उच्यते । तच्च अतीव सरलतया भगवता पाणिनिनैव उक्तम् (पा॰ सू॰ १/४/१०-१२) - "ह्रस्वं लघु", "संयोगे गुरु", "दीर्घं च" – इति । तन्नाम यत्र अक्षरे स्वरः ह्रस्वः तद् लघु इत्युच्यते, यथा 'शमः' इत्यत्र 'श' इति । परन्तु यदि परतः संयोगः भवति तदा तद् गुरु, न तु लघु, यथा 'शक्तिः' इत्यत्र 'श' इति । यत्तु दीर्घस्वरम् अक्षरं तत् सर्वदा गुरु, यथा 'रामः' 'राद्धम्' इत्युभयत्र 'रा' इति । अयोगवाहपरमपि संयुक्तपरम् इति गृह्यते - अतः 'कंसः' 'दुःखम्' इत्यादौ 'क' 'दु' इत्यादीनि अक्षराणि गुरूण्येव ।

छन्दःशास्त्रे लघ्वक्षरस्य एका मात्रा गुर्वक्षरस्य द्वे मात्रे इति परिगणना । (अक्षरान्तर्गतानां स्वराणां व्यञ्जनानां च शिक्षाव्याकरणयोः प्रसिद्धः प्रत्येककालस्तु नात्र पुरस्क्रियते इति विशेषोऽवधेयः ।)

अपि च लघुनः '।' इति (दण्ड)चिह्नेन, गुरुणश्च ऽ इति (अवग्रह)चिह्नेन सूचनं क्रियते इति सम्प्रदायः ।

अथ त्रिभिस्त्रिभिः अक्षरैः एको गणः परिगण्यते । लघुगुरुभावेन द्विविधानाम् अक्षराणां त्रिषु स्थानेषु विन्यासस्य संहत्य २ × २ × २ = ८ प्रकाराः सम्भवन्ति । तेषां म-य-र-स-त-ज-भ-न इति संज्ञाः । तेषां च सुखेन स्मरणाय अयं सरलः श्लोकः (पुनः श्लोकः!) भवति -

आदिमध्यावसानेषु य-र-ता यान्ति लाघवम् । भ-ज-सा गौरवं यान्ति म-नौ तु गुरुलाघवम् ॥

तन्नाम य-र-त-गणानां क्रमेण आदौ मध्ये अन्ते च लघुत्वं भवति, तन्नाम इतरत्र गुरुत्वं भवति । तथा भ-ज-स-गणानाम् आदौ मध्ये अन्ते च गुरुत्वं भवति, तन्नाम इतरत्र लघुत्वं भवति । म-न-गणयोस्तु सर्वत्र गुरुत्वं लघुत्वं च भवति । तेन इदं सिद्धम् -

य = ।ऽऽ, र = ऽ।ऽ, त = ऽऽ।

भ = ऽ।।, ज = ।ऽ।, स = ।।ऽ

म = ऽऽऽ, न = ।।।

॥ श्लोकस्य लोकप्रसिद्धं लक्षणम् ॥

यस्य पद्यस्य संहत्य द्वात्रिंशद् अक्षराणि भवन्ति तत्र अनुष्टुप् नाम छन्दः इत्युच्यते । तच्च प्रायेण चतुर्षु अष्टाक्षरेषु पादेषु व्यवस्थितं भवति । एवं सति श्लोकाख्यस्य तत्प्रकारविशेषस्य इदं लक्षणम् उच्यते छन्दोमञ्जर्याख्ये ग्रन्थे -

पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरु विजानीयात् शेषेष्वनियमो मतः ॥

अस्य च अर्थः स्पष्टः यत् - सर्वेषु पादेषु पञ्चमं लघु भवेत्, षष्ठं च गुरु; सप्तमं तु प्रथमतृतीययोः गुरु द्वितीयचतुर्थयोः लघु च भवेत् इति । तथा च लेखनस्य आदौ उक्तं पुण्यश्लोकपद्यं परिशीलयामश्चेत् -

ऽऽऽऽ ।ऽऽ ऽ - ऽऽऽऽ ।ऽ। ऽ --

ऽऽऽऽ ।ऽऽ ऽ - ऽऽऽऽ ।ऽ। ऽ --

इति प्रस्तारः (लघुगुरुविन्यासविशेषः) लभ्यते । अत्र च उक्तानि सर्वाणि लक्षणानि सन्ति । अतः इदं श्लोक एवेति निश्चितम् । यामुनसैकतदेशे इति पद्ये तु इदं लक्षणं नास्तीत्यपि एवमेव परीक्ष्य ज्ञातुं शक्यते ।

एवमेव धर्मक्षेत्रे इति गीतायाः पद्यमपि श्लोकलक्षणयुक्तमिति निश्चेतुं शक्यते । तथा शुक्लाम्बरधरं, वक्रतुण्ड इत्यादीनि लोकप्रसिद्धानि अन्यान्यपि । तथा रामायणमहाभारते, पुराणानि, शास्त्रग्रन्थाः इत्येषां, किंबहुना संस्कृतपद्यवाङ्मयस्यैव भूयान् भागः श्लोकरूपेण एव निबद्धः वर्तते ।

अस्मिंश्च श्लोकस्य अत्यन्तप्रचारे प्रधानं कारणम् उत्पश्यामः यत् समस्ते पद्ये केषांचनैव अक्षराणां (तन्नाम प्रतिपादम् अष्टसु त्रयाणामेव) लघुगुरुभावनियमः कृतः, अन्येषु तु प्रायेण अनियमः वर्तते । अतः भाषायां काञ्चन मध्यमां व्युत्पत्तिं प्राप्ताः अपि श्लोकरूपेण पद्यानि रचयितुं प्रभवन्ति । (एतावता तु तस्य महिमा न हीयते, उक्तरीत्या बहूनां पूज्यग्रन्थानां तस्मिन्नेव निबद्धत्वात्, बहुभिश्च महात्मभिः महापण्डितैश्च बहुधा प्रयुक्तत्वात् ।)

॥ श्लोकरूपपद्यप्रकारस्य उत्पत्तेः कथा ॥

अत्र प्रसङ्गाद् श्लोकस्योत्पत्तौ कथा काचन सङ्क्षिप्य उच्यते । तथा हि अस्य श्लोकरूपपद्यप्रकारस्य आविष्कर्ता आदिकवित्वेन प्रसिद्धः वाल्मीकिरेवेति भासते । तथा हि रामायणे बालकाण्डे द्वितीयसर्गे, क्रौञ्चमिथुनस्य पुमांसं व्याधेन हतं पश्यति वाल्मीकिः -

ततः करुणवेदित्वाद् अधर्मोऽयम् इति द्विजः । निशाम्य रुदतीं क्रौञ्चीम् इदं वचनम् अब्रवीत् ॥

मा निषाद प्रतिष्ठां त्वम् अगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनाद् एकम् अवधीः काममोहितम् ॥

तस्येत्थं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः । शोकेनार्तस्य शकुनेः किमिदं व्याहृतं मया ॥

चिन्तयन् स महाप्राज्ञः चकार मतिमान् मतिम् । शिष्यं चैवाब्रवीद् वाक्यम् इदं स मुनिपुङ्गवः ॥

पादबद्धोऽक्षरसमः तन्त्रीलयसमन्वितः । शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥

अत्र च वाल्मीकिः स्वमुखाद् निस्सृतस्य वाक्यस्य पादबद्धत्वम् अक्षरसमत्वं (सर्वेषु पादेषु समाक्षरयुक्तत्वं) तन्त्रीलयसमन्वितत्वम् इत्येतान् गुणान् नूतनानिव विमृशन् स्फुटं लक्ष्यते । यदि नाम अयं विशिष्टः पद्यप्रकारः ततः पूर्वमेव आविष्कृतः स्याद् तदा नूतनमिव विमर्शनीयं न भवति । अतः श्लोकाख्यः वृत्तविशेषः वाल्मीकिना इत्थम् आविष्कृत इति वक्तुम् अवकाशोऽस्ति । यद्यपि वेदेऽपि अनुष्टुप्छन्दोबद्धाः मन्त्राः बहवो वर्तन्ते (तेषु च केचन यदृच्छया एतल्लक्षणलक्षिताः स्युुः) तथाऽपि लौकिकपद्येषु अस्या रीतेः व्यवस्थितरूपेण आविष्करणं वाल्मीकेरिति वक्तुं शक्यते ।

अत्र च वाल्मीकिमुखाद् निःसृतस्य मानिषादेति पद्यस्य पूर्वोक्तश्लोकलक्षणसमन्वयो भवत्येव यथा -

ऽ।ऽऽ ।ऽऽ । - ।।ऽऽ ।ऽ। ऽ --

ऽऽ।। ।ऽऽ । - ।।ऽऽ ।ऽ। ऽ --

किञ्च इदं पद्यं न केवलं व्याधस्य निन्दा प्रत्युत भगवतः श्रीरामस्य श्लोकः स्तुतिरेव इत्यर्थे "श्लोको भवतु" इत्यत्र प्रथमतः प्रयुक्तः अयं श्लोकशब्दः अस्मिन्नेव पद्यप्रकारविशेषे रूढोऽभवदिति भाति । अतः पुनः यद्यपि वेदेऽपि श्लोकशब्दस्य प्रयोगः कीर्तिः अथवा स्तुतिः इत्यर्थे बहुधा वर्तते तथाऽपि पद्यविशेषवाचकत्वेन तस्य प्रयोगः वाल्मीकेः परं जातः स्यादिति ।

अग्रे च वाल्मीक्याश्रमम् आगतो ब्रह्मा श्लोकत्वम् अनुगृह्णातीत्यपि तत्रैव रामायणे -

... तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम् ॥

श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा । ...

अत्र च प्रकरणे व्याख्यातृभिः बहु पराक्रान्तमिति विस्तराद् विरम्यते ।

॥ श्लोकलक्षणस्य बहुत्र असमन्वयः ॥

प्रकृते श्लोकस्य लक्षणम् अस्माभिः ज्ञातम् । परन्तु सर्वेषु श्लोकतया विभाव्यमानेषु पद्येषु इदं लक्षणं न समन्वेति । तथा हि अस्यैव रामायणस्य सर्वप्रथमं पद्यं भवति -

तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥

अत्र प्रथमपादे ।ऽऽऽ ।।। ऽ इति प्रस्तारो भवति । अत्र च षष्ठसप्तमयोः यद् गुरुत्वं भवेत् तन्नास्तीति स्पष्टम् । एवमेव रघुवंशे प्रथमसर्गे -

अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना ॥

इत्यत्रापि प्रथमपादे । तथा तत्रैव -

तव मन्त्रकृतो मन्त्रैर् दूरात् संशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥

इत्यत्र तृतीयपादे ऽऽऽऽ ।।। ऽ इति वर्तते । एवमेव अपरस्मिन्नपि प्रसिद्धे श्लोके -

वागीशाद्याः सुमनसः सर्वार्थानाम् उपक्रमे । यन्नत्वा कृतकृत्याः स्युः तन्नमामि गजाननम् ॥

इत्यत्र । एषु सर्वषु उदाहरणेषु प्रथमे तृतीये वा पादे षष्ठसप्तमयोः अपेक्षितम् गुरुत्वं नास्ति ।

पुनरपि रघुवंशे -

मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥

इत्यत्र प्रथमपादे ।ऽ।ऽ ऽऽऽ ऽ इति प्रस्तारे पञ्चमस्य लघुत्वं नास्ति । तथा तत्रैव -

अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥

इत्यत्र तृतीयपादेऽपि ।

तथैव तर्कसङ्ग्रहदीपिकामङ्गले -

विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरां गुरुम् । टीकां शिशुहितां कुर्वे तर्कसङ्ग्रहदीपिकाम् ॥

इत्यत्र प्रथमपादे ऽऽ।ऽ ऽ।ऽ ऽ इति प्रस्तारे पञ्चमस्य लघुत्वं षष्ठस्य गुरुत्वं च नास्ति ।

अन्यान्यपि उदाहरणानि सुबहुशः काव्येषु अन्येषु च प्राचीनग्रन्थेषु श्लोका लभ्यन्ते । एते च सर्वे श्लोका इत्येव कथ्यन्ते । अत्र श्लोकलक्षणाभावे श्लोकत्वं कथम् ?

॥ श्लोकः वक्त्रम् इति पर्यायशब्दौ वृत्तविशेषवाचकौ ॥

उच्यते । पूर्वोक्तं यत् छन्दोमञ्जरीगतं लक्षणं तत्र अग्रिमवाक्यं वर्तते -

प्रयोगे प्रायिकं प्राहुः केऽप्येतद् वक्त्रलक्षणम् ।

इति । तन्नाम इदं लक्षणं प्रायिकमेव, न तु सार्वत्रिकं, तथाऽपि केचिद् एतादृशं लक्षणं वदन्ति इत्यर्थः ।

ननु अत्र वाक्ये वक्त्रलक्षणम् इति वर्तते, न तु श्लोकलक्षणम् इति ? अत्रोच्यते, श्लोकश्च वक्त्रं च समानमेवेति श्रुतबोधाख्यस्य अपरस्य च्छन्दःपरिचयग्रन्थस्य परिशीलनेन ज्ञायते । तथा हि तत्र पठ्यते -

श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुःपादयोर् ह्रस्वं सप्तमं दीर्घम् अन्ययोः ॥

पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरु विजानीयाद् एतत् पद्यस्य लक्षणम् ॥

इति । एतौ द्वौ श्लोकौ एकमेव विषयं शब्दान्तरेण भाषेते । प्रथमे श्लोके ह्रस्वदीर्घशब्दौ लघुगुरुपरौ इति वक्तव्यं द्वितीयश्लोकसंवादाय । तथा द्वितीये श्लोके पद्यशब्दः प्राचुर्यात् श्लोकपरः इति वक्तव्यम् । एवं शब्दव्याकुलतायामपि अनेन ग्रन्थेनैव (न पूर्वोक्तैः कैरपि) अस्य पद्यविशेषस्य श्लोक इत्यभिधानं कृतं दृश्यते (वाल्मीक्यनुसरणेन) । छन्दोमञ्जर्यां तु एतद् वक्त्रस्य लक्षणम् इत्युक्तम् । अतः वक्त्रं श्लोकश्च एकमेवेति ज्ञायते ।

प्रकृते च च्छन्दोमञ्जर्यां व्यक्तमेव पूर्वोक्तं लक्षणं प्रायिकम् इत्यभिहितम् । श्रुतबोधेऽपि यद् लक्षणं तत् प्राथमिकपरिचयार्थमेव । तथा हि श्रुतबोधस्य आदावेव -

छन्दसां लक्षणं येन श्रुतमात्रेण बुध्यते । तम् अहं सम्प्रवक्ष्यामि श्रुतबोधम् अविस्तरम् ॥

- इत्युक्तम् । अत्र अविस्तरेति शब्दो ध्येयः । अतः वास्तवं लक्षणं गुरुतरेभ्यो ग्रन्थेभ्यः ज्ञेयम् ।

॥ श्लोकस्य सूक्ष्मतरं लक्षणम् ॥

तथा च च्छन्दःसूत्रेषु सवृत्तिकेषु वृत्तरत्नाकरे च "वक्त्रप्रकरणम्" इत्यत्र पृथग् अयं विषयः उपन्यस्तः । यद् अस्माभिः श्लोक इति कथ्यते तस्य मूलभूते छन्दःशास्त्रे नाम भवति "वक्त्रम्" इति । वक्तॄणां वक्त्रे सौख्यम् आवहतीति भावनया एवं नाम कृतं स्याद् ! अयं च पूर्वोक्तस्वरूपस्य अनुष्टुप्छन्दसः अवान्तरप्रकारः ।

वक्त्रस्य विवरणे क्रियमाणे प्रतिपादं विद्यमानानि अष्टौ अक्षराणि एवं विभज्यन्ते - प्रथमाक्षरं, ततः द्वौ त्र्यक्षरौ गणौ, अष्टमाक्षरम् इति । अत्र च प्रथमम् अन्त्यं च अक्षरं लक्षणे न गण्यते, तन्नाम तस्य लघुगुरुभावो न नियम्यते । तद् विहाय मध्यमयोः त्र्यक्षरयोः गणयोः अधोनिर्दिष्टौ नियमौ वर्तेते सर्वत्र वक्त्रे । तत्र अयुग्मपादयोः (प्रथमतृतीययोः) युग्मपादयोः (द्वितीयचतुर्थयोः) इति भेदेन अपि नियमाः भवन्ति ।

१)कस्मिन्नपि पादे प्रथमः गणः सगणः (।।ऽ) नगणः (।।।) वा न भवेत् ।

२)युग्मपादयोः सः प्रथमः गणः रगणः (ऽ।ऽ) अपि न भवेत् ।

(अतः "शेषेष्वनियमो मतः" इति च्छन्दोमञ्जरीलक्षणे उक्तमपि प्रायिकमेव ।) सम्प्रति उक्तनियमद्वयोपरि विशेषणानां परिवर्तनेन वक्त्रस्य प्रभेदाः लभ्यन्ते । (वक्ष्यमाणानि उदाहरणानि प्राधान्येन पिङ्गलच्छन्दःसूत्राणां हलायुधविरचितायाः वृत्तेः उद्धृतानि, * इति नक्षत्रचिह्नयुक्तानि तु मदीयानि ।)

॥ वक्त्रस्य (श्लोकस्य) प्रभेदाः ॥

३)सर्वेषु पादेषु द्वितीयः गणः यगणः (।ऽऽ) भवति चेत् तत् केवलं वक्त्रम्

अस्य उदाहरणम् -

दुर्भाषितेऽपि सौभाग्यं प्रायः प्रकुरुते प्रीतिः । मातुर्मनो हरन्त्येव दौर्लालित्योक्तिभिर्बालाः ॥

अत्र च प्रस्तारः -

ऽ ऽ।ऽ (र) ।ऽऽ (य) ऽ - ऽ ऽ।। (भ) ।ऽऽ (य) ऽ --

ऽ ऽ।ऽ (र) ।ऽऽ (य) । - ऽ ऽऽऽ (म) ।ऽऽ (य) ऽ --

इदं च प्रसिद्धात् श्लोकलक्षणाद् युग्मपादयोः भिद्यते यतः अत्र सप्तमम् अक्षरं गुरु भवति । तच्च अनुपदं परिह्रियते -

४)वक्त्रे युग्मपादयोः द्वितीयः जगणः (।ऽ।) भवति चेत् तत् पथ्यावक्त्रम्इदं पथ्यावक्त्रमेव प्रसिद्धश्लोकलक्षणानुगुणम् । यथा अस्य (भूयोऽप्येकम्) उदाहरणम् -

नित्यं नीतिनिषण्णस्य राज्ञो राष्ट्रं न सीदति । न हि पथ्याशिनः काये जायन्ते व्याधिवेदनाः ॥

अत्र प्रस्तारः -

ऽ ऽऽ। (त) ।ऽऽ (य) । - ऽ ऽऽऽ (म) ।ऽ। (ज) । --

। ।ऽऽ (य) ।ऽऽ (य) ऽ - ऽ ऽऽऽ (म) ।ऽ। (ज) ऽ --

अतश्च प्रसिद्धानि सर्वाणि पूर्वोक्तश्लोकलक्षणलक्षितानि पद्यानि वस्तुतः पथ्यावक्त्राख्ये अनुष्टुप्छन्दसः अवान्तरप्रकारे अन्तर्भवन्ति ।

परमपि एतावता पूर्वोक्तः तपःस्वाध्याय इत्यादिषु श्लोकतया प्रसिद्धेषु श्लोकलक्षणस्य असमन्वयः इत्येवंरूपो दोषः न परिहृतः । अतः भूयोऽपि श्रूयताम् ।

५)वक्त्रे अयुग्मपादयोः द्वितीयः जगणः (।ऽ।) भवति चेत् तद् विपरीतपथ्यावक्त्रम् । यथा -

आचार्याय प्रियं धनम् आहृत्य व्रज गार्हस्थ्यम् । श्रद्धालुर्गृहिणीयुत आतिष्ठ विहितं धर्मम् ॥*

ऽ ऽऽऽ (म) ।ऽ। (ज) । - ऽ ऽऽ। (त) ।ऽऽ (य) ऽ --

ऽ ऽऽ। (त) ।ऽ। (ज) । - ऽ ऽ।। (भ) ।ऽऽ (य) ऽ --

६)वक्त्रे अयुग्मपादयोः द्वितीयः नगणः (।।।) भवति चेत् तत् चपलावक्त्रम् । यथा -

उह्यमानां स्वशिबिकां विषमं स नृपो दृष्ट्वा । रहूगणः कुत इति कुपितो भृत्यकान् आह ॥*

ऽ ।ऽऽ (य) ।।। (न) ऽ - । ।ऽ। (ज) ।ऽऽ (य) ऽ --

। ऽ।ऽ (र) ।।। (न) । - । ।ऽऽ (य) ।ऽऽ (य) । --

अतः परं विपुला इत्यवान्तरप्रकरणम् आरभ्यते । अत्र च पथ्यावक्त्रम् आधारत्वेन गृह्यते । तन्नाम पथ्यावक्त्रवद् युग्मपादयोः द्वितीयः गणः जगण एव भवेत् । भेदस्तु अयुग्मपादे । पथ्यावक्त्रे उभयोरपि अयुग्मपादयोः द्वितीयः यगणः एव भवेत् इति जानीमः । तत्र परिवर्तने जाते विपुला भवति । तेन -

७)पथ्यावक्त्रे एकस्मिन् अयुग्मपादे उभयोः वा द्वितीयः यगणः न भवति चेत्, सा विपुला । अस्याश्च वक्ष्यमाणाः प्रकाराः भवन्ति ।

८)विपुलायाम् उभयोः अयुग्मपादयोः (फलतः चतुर्षु अपि पादेषु) द्वितीयः जगणः एव भवति चेत् सा केवला विपुला । यथा -

सैतवेन पथार्णवं तीर्णो दशरथात्मजः । रक्षःक्षयकरीं पुनः प्रतिज्ञां स्वेन बाहुना ॥

ऽ ।ऽ। (ज) ।ऽ। (ज) ऽ - ऽ ऽ।। (भ) ।ऽ। (ज) ऽ --

ऽ ऽ।। (भ) ।ऽ। (ज) ऽ - । ऽऽऽ (म) ।ऽ। (ज) ऽ --

९)तत्रैव यगणाद् जगणाच्च भिन्नः अन्यो यो गणः द्वितीयः भवति, तन्नाम्ना सा विपुला भवति । अत्र च सः गणः उभयोः अयुग्मपादयोः स्यात्, एकस्मिन् वा । आधिक्येन एकत्रैव दृश्यते ।

यथा "तपःस्वाध्याय" इत्यत्र प्रथमपादे । ऽऽऽ (म) ।।। (न) ऽ इति प्रस्तारो भवतीत्यतः एषा नविपुला । "अनाकृष्टस्य विषयैः", "प्रत्यादिश्यन्त इव मे" इत्यादावपि सैव । एवं "मनोभिरामाः शृण्वन्तौ", "उपस्थितेयं कल्याणी" इत्यत्र च मविपुला, "विश्वेश्वरं साम्बमूर्तिम्" इत्यत्र रविपुला । एवम् अन्यत्र अन्याऽन्या च अनुुसन्धेया ।

तादृशे च विपुलात्वापादिनि पादे अधिको नियमः अस्ति यत् चतुर्थम् अक्षरं गुरु एव भवेत्, तन्नाम फलतः यगणः रगणः मगणो वा प्रथमो भवेत् । (सगणे अन्तिमं गुरु एव परन्तु सः आदावेव निषिद्धः इति स्मर्तव्यम् ।) सर्वे पूर्वोदाहृताः विपुलायां प्राचीनकविप्रयोगाः एतं नियमम् अनुसरन्ति एव । तदनु द्वितीयः यगणात् जगणाच्च भिन्नः अन्यो भवितुम् अर्हति । यदि तु प्रथमगणः तगणः भगणः जगणो वा भवति तदा तत्र विपुला कर्तुं न शक्यते ।

१०)विपुलायाम् अयुग्मपादयोः यगणाद् जगणाच्च भिन्नौ द्वौ गणौ द्वितीयस्थाने भवतश्चेत् सा तयोः सङ्कीर्णविपुला भवति । यथा -

प्रणौमि तं मम गुरुं कामाक्षीचरणार्चकम् । समन्दहासं दयालुं काञ्चीपीठनिवासिनम् ॥*

। ऽ।ऽ (र) ।।। (न) ऽ - ऽ ऽऽ। (त) ।ऽ। (ज) ऽ --

। ऽ।ऽ (र) ऽ।ऽ (र) ऽ - ऽ ऽऽ। (त) ।ऽ। (ज) ऽ --

अत्र प्रथमपादे द्वितीयतया नगणः तृतीयपादे च रगणः वर्तत इत्यतः एषा तयोः सङ्कीर्णविपुला ।

॥ उपसंहारः ॥

अन्ततः सर्वस्य परीक्षणेन एतावद् ज्ञायते - यदेव वक्त्रम् इति च्छन्दःशास्त्रे उक्तं तदेव लोके श्लोक इति प्रसिद्धम् । अतश्च यद्यपि श्लोकस्य प्रधानः प्रकारः पथ्यावक्त्रमेव (तत्र चैव प्रसिद्धं लक्षणं सम्भवति), तथापि विपुलादीनाम् इतरेषामपि वक्त्रप्रकाराणां सत्त्वाद् तादृशलक्षणयुक्तान्यपि पद्यानि श्लोकत्वेन अङ्गीक्रियन्ते व्यवह्रियन्ते च । किञ्च वक्त्रलक्षणे प्रथमगणस्थाने कस्यापि गणस्य विधेः अभावेऽपि स-न-र-गणानां निषेधः वर्तते इत्यतः वक्त्रापरपर्यायस्य श्लोकस्य लक्षणं (पथ्यावक्त्रमात्रविचारे क्रियमाणेऽपि) न केवलं पञ्चमषष्ठसप्तमेषु अक्षरेषु आयत्तं भवति प्रत्युत द्वितीयतृतीयचतुर्थेष्वपि इति स्मर्तव्यम् ।

अयि भोः संस्कृताभिमानिनः ! आशासे सर्वेणानेन विस्तृतविवरणेन पद्यविरचनप्रयत्नात् "मा भीः" जायतां युष्मासु ! स्मर्तुम् अर्हथ यद् यु"ष्माभी" रचितं पद्यं यद्यपि वक्त्रं वा पथ्यावक्त्रं वा विपुला वा न स्याद्, अष्टाक्षरपादचतुष्कव्यवस्थितं चेद् निश्चयेन अनुष्टुप्छन्दसि अन्तर्भवत्येव ! वेदे चापि "एष श्लोको भवति" इति प्रस्तुता बहवो मन्त्राः न पूर्वोक्तेषु प्रकारेषु अन्तर्भवन्ति । अतः क्रमेण प्रयतमानाः प्रथमतः अक्षरसङ्ख्यानियमम् अभ्यस्य ततो लघुगुरुनियमं परिपाल्य वक्त्रलक्षणयुक्तानि शास्त्रीयाणि श्लोकपद्यानि रचयितुं शक्ष्यथ ।

व्याकरणवच्च हि च्छन्दस्यपि कूपखानकन्याय एव – "कूपखानकः कूपं खनन् यद्यपि मृदा पांसुभिश्च अवकीर्णो भवति, सोऽप्सु सञ्जातासु तं गुणम् आसादयति येन स च दोषो निर्हण्यते भूयसा चाभ्युदयेन योगो भवति" - इति महाभाष्यकारेण उक्तया विधया । एवं "पद्ये पद्ये छन्दसां स्याद् विशुद्धिः" इति मन्यमानाः संस्कृतभाषायाः अतिसुन्दरे अस्मिन्नपि प्रकारे धैर्येण प्रवर्तध्वं, स्वीयं भाषासौष्ठवं च वर्धयध्वम् !

-०-